वैराग्य शतकम्
चूडोत्तंसितचारुचन्द्रकलिकाचञ्चच्छिखाभास्वरो
लीलादग्धविलोलकामशलभः
श्रेयोदशाग्रे स्फुरन् ।
अन्तःस्फूर्जदपारमोहतिमिरप्राग्भारमुच्चाटयन्-
श्चेतःसद्मनि योगिनां
विजयते ज्ञानप्रदीपो हरः ।। 1
।।
चारुचन्द्र - चन्द्रचारु
चूड-उत्तंसित-चारु-चन्द्र-कलिका-चञ्चत्-शिखा-भास्वरो
लीला-दग्ध-विलोल-काम-शलभः
श्रेयः-दशा-अग्रे स्फुरन् ।
अन्तः-स्फूर्जत्-अपार-मोह-तिमिर-प्राग्-भारम्-उच्चाटयन्-
चेतः-सद्मनि योगिनां
विजयते ज्ञान-प्रदीपो हरः ।। 1
।।
बोद्धारो मत्सरग्रस्ताः
प्रभवः स्मयदूषिताः ।
अबोधोपहताश्चान्ये
जीर्णमङ्गे सुभाषितम् ।। 2
।।
बोद्धारो मत्सर-ग्रस्ताः
प्रभवः स्मय-दूषिताः ।
अबोध-उपहताः-च-अन्ये
जीर्णम्-अङ्गे सुभाषितम् ।। 2
।।
(this Sloka is found in सुभाषित
रत्न भण्डागरम्)
उत्खातं निधिशङ्कया
क्षितितलं ध्माता गिरेर्धातवो
निस्तीर्णः सरितां
पतिर्नृपतयो यत्नेन संतोषिताः ।
मन्त्राराधनतत्परेण
मनसा नीताः श्मशाने निशाः
प्राप्तः काणवराटकोऽपि
न मया तृष्णेऽधुना मुञ्च माम् ।। 3
।।
तृष्णेऽधुना मुञ्च
माम् - तृष्णे सकामा भव
उत्खातं निधि-शङ्कया
क्षिति-तलं ध्माता गिरेः-धातवो
निस्तीर्णः सरितां
पतिः-नृपतयो यत्नेन संतोषिताः ।
मन्त्र-आराधन-तत्परेण
मनसा नीताः श्मशाने निशाः
प्राप्तः काण-वराटकः-अपि
न मया तृष्णे-अधुना मुञ्च माम् ।। 3
।।
भ्रान्तं देशमनेकदुर्गविषमं
प्राप्तं न किञ्चित्फलं
त्यक्त्वा जातिकुलाभिमानमुचितं
सेवा कृता निष्फला ।
भुक्तं मानविवर्जितं
परगृहेष्वाशङ्कया काकवत्-
तृष्णे जृम्भसि पापकर्मनिरते
नाद्यापि सन्तुष्यसि ।। 4
।।
पापकर्मनिरते - पापकर्मपिशुने
भ्रान्तं देशम्-अनेक-दुर्ग-विषमं
प्राप्तं न किञ्चित्-फलं
त्यक्त्वा जाति-कुल-अभिमानम्-उचितं
सेवा कृता निष्फला ।
भुक्तं मान-विवर्जितं
पर-गृहेषु-आशङ्कया काकवत्-
तृष्णे जृम्भसि पाप-कर्म-निरते
न-अद्य-अपि सन्तुष्यसि ।। 4
।।
खलोल्लापाः सोढाः
कथमपि तदाराधनपरैर्-
निगृह्यान्तर्बाष्पं
हसितमपि शून्येन मनसा ।
कृतश्चित्तस्तम्भः
प्रतिहतधियामञ्जलिरपि
त्वमाशे मोघाशे किमपरमतो
नर्तयसि माम् ।। 5
।।
खलोल्लापाः - खलालापाः
कृतश्चित्तस्तम्भः
प्रतिहत - कृतो वित्तस्तम्भप्रतिहत
खल-उल्लापाः सोढाः
कथम्-अपि तत्-आराधन-परैः-
निगृह्य-अन्तर्-बाष्पं
हसितम्-अपि शून्येन मनसा ।
कृतः-चित्त-स्तम्भः
प्रतिहत-धियाम्-अञ्जलिः-अपि
त्वम्-आशे मोघ-आशे
किम्-अपरम्-अतो नर्तयसि माम् ।। 5
।।
अमीषां प्राणानां
तुलितबिसिनीपत्रपयसां
कृते किं नास्माभिर्विगलितविवेकैर्व्यवसितम्
।
यदाढ्यानामग्रे द्रविणमदनिःसंज्ञमनसां
कृतं वीतव्रीडैर्निजगुणकथापातकमपि
।। 6
।।
अमीषां प्राणानां
तुलित-बिसिनी-पत्र-पयसां
कृते किं न-अस्माभिः-विगलित-विवेकैः-व्यवसितम्
।
यत्-आढ्यानाम्-अग्रे
द्रविण-मद-निःसंज्ञ-मनसां
कृतं वीत-व्रीडैः-निज-गुण-कथा-पातकम्-अपि
।। 6
।।
क्षान्तं न क्षमया
गृहोचितसुखं त्यक्तं न संतोषतः
सोढो दुःसहशीतवाततपनक्लेशो
न तप्तं तपः ।
ध्यातं वित्तमहर्निशं
नियमितप्राणैर्न शम्भोः पदं
तत्तत्कर्म कृतं
यदेव मुनिभिस्तैस्तैः फलैर्वञ्चिताः ।। 7
।।
सोढो - सोढा;
क्लेशो
- क्लेशा
क्षान्तं न क्षमया
गृह-उचित-सुखं त्यक्तं न संतोषतः
सोढो दुःसह-शीत-वात-तपन-क्लेशो
न तप्तं तपः ।
ध्यातं वित्तम्-अहर्निशं
नियमित-प्राणैः-न शम्भोः पदं
तत्-तत्-कर्म कृतं
यत्-एव मुनिभिः-तैः-तैः फलैः-वञ्चिताः ।। 7
।।
भोगा न भुक्ता वयमेव
भुक्ताः
तपो न तप्तं वयमेव
तप्ताः ।
कालो न यातो वयमेव
यातास्-
तृष्णा न जीर्णा
वयमेव जीर्णाः ।। 8
।।
भोगा न भुक्ता वयम्-एव
भुक्ताः
तपो न तप्तं वयम्-एव
तप्ताः ।
कालो न यातो वयम्-एव
याताः
तृष्णा न जीर्णा
वयम्-एव जीर्णाः ।। 8
।।
वलिभिर्मुखमाक्रान्तं
पलितैरङ्कितं शिरः ।
गात्राणि शिथिलायन्ते
तृष्णैका तरुणायते ।। 9
।।
वलिभिर्मुखम् - वलीभिर्मुखम्
पलितैरङ्कितं - पलितेनाङ्कितं
वलिभिः-मुखम्-आक्रान्तं
पलितैः-अङ्कितं शिरः ।
गात्राणि शिथिलायन्ते
तृष्णा-एका तरुणायते ।। 9
।।
निवृत्ता भोगेच्छा
पुरुषबहुमानो विगलितः
समानाः स्वर्याताः
सपदि सुहृदो जीवितसमाः ।
शनैर्यष्ट्युत्थानं
घनतिमिररुद्धे च नयने
अहो धृष्टः कायस्तदपि
मरणापायचकितः ।। 10
।।
बहुमानो विगलितः
- बहुमानोऽपि गलितः
धृष्टः - मूढः
निवृत्ता भोग-इच्छा
पुरुष-बहुमानो विगलितः
समानाः स्वर्याताः
सपदि सुहृदो जीवित-समाः ।
शनैः-यष्टि-उत्थानं
घन-तिमिर-रुद्धे च नयने
अहो धृष्टः कायः-तदपि
मरण-अपाय-चकितः ।। 10 ।।
आशा नाम नदी मनोरथजला
तृष्णातरङ्गाकुला
रागग्राहवती वितर्कविहगा
धैर्यद्रुमध्वंसिनी ।
मोहावर्तसुदुस्तरातिगहना
प्रोत्तुङ्गचिन्तातटी
तस्याः पारगता विशुद्धमनसो
नन्दन्ति योगीश्वराः ।। 11
।।
आशा नाम नदी मनोरथ-जला
तृष्णा-तरङ्ग-आकुला
राग-ग्राहवती वितर्क-विहगा
धैर्य-द्रुम-ध्वंसिनी ।
मोह-आवर्त-सुदुस्तर-अति-गहना
प्रोत्तुङ्ग-चिन्ता-तटी
तस्याः पार-गता विशुद्ध-मनसो
नन्दन्ति योगि-ईश्वराः ।। 11
।।
न संसारोत्पन्नं
चरितमनुपश्यामि कुशलं
विपाकः पुण्यानां
जनयति भयं मे विमृशतः ।
महद्भिः पुण्यौघैश्चिरपरिगृहीता
हि विषया
महान्तो जायन्ते
व्यसनमिव दातुं विषयिणाम् ।। 12
।।
परिगृहीतां हि -
परिगृहीताश्च
न संसार-उत्पन्नं
चरितम्-अनुपश्यामि कुशलं
विपाकः पुण्यानां
जनयति भयं मे विमृशतः ।
महद्भिः पुण्य-औघैः-चिर-परिगृहीता
हि विषया
महान्तो जायन्ते
व्यसनम्-इव दातुं विषयिणाम् ।। 12
।।
अवश्यं यातारश्चिरतरमुषित्वापि
विषया
वियोगे को भेदस्त्यजति
न जनो यत्स्वयममून् ।
व्रजन्तः स्वातन्त्र्यादतुलपरितापाय
मनसः
स्वयं त्यक्ता ह्येते
शमसुखमनन्तं विदधति ।। 13
।।
अवश्यं यातारः-चिरतरम्-उषित्वा-अपि
विषया
वियोगे को भेदः-त्यजति
न जनो यत्-स्वयम्-अमून् ।
व्रजन्तः स्वातन्त्र्यात्-अतुल-परितापाय
मनसः
स्वयं त्यक्ता हि-एते
शम-सुखम्-अनन्तं विदधति ।। 13
।।
ब्रह्मज्ञानविवेकनिर्मलधियः
कुर्वन्त्यहो दुष्करं
यन्मुञ्चन्त्युपभोगभाञ्ज्यपि
धनान्येकान्ततो निःस्पृहः ।
न प्राप्तानि पुरा
न सम्प्रति न च प्राप्तौ दृढप्रत्यया
वाञ्छामात्रपरिग्रहाण्यपि
परं त्यक्तुं न शक्ता वयम् ।। 14
।।
न प्राप्तानि - सम्प्राप्तान्न;
दृढप्रत्ययो
- दृढप्रत्ययान्
शक्तो - शक्ता
ब्रह्म-ज्ञान-विवेक-निर्मल-धियः
कुर्वन्ति-अहो दुष्करं
यत्-मुञ्चन्ति-उपभोगभाञ्जि-अपि
धनानि-एकान्ततो निःस्पृहः ।
न प्राप्तानि पुरा
न सम्प्रति न च प्राप्तौ दृढ-प्रत्यया
वाञ्छा-मात्र-परिग्रहाणि-अपि
परं त्यक्तुं न शक्ता वयम् ।। 14
।।
धन्यानां गिरिकन्दरे
निवसतां ज्योतिः परं ध्यायताम्-
आनन्दाश्रुजलं पिबन्ति
शकुना निःशङ्कमङ्केशयाः ।
अस्माकं तु मनोरथोपरचितप्रासादवापीतट-
क्रीडाकाननकेलिकौतुकजुषामायुः
परिक्षीयते ।। 15 ।।
गिरिकन्दरे निवसतां
- गिरिकन्दरेषु वसतां
आनन्दाश्रुजलं -
आनन्दाश्रुकणान्
परिक्षीयते - परं
क्षीयते
धन्यानां गिरि-कन्दरे
निवसतां ज्योतिः परं ध्यायताम्-
आनन्द-अश्रु-जलं
पिबन्ति शकुना निःशङ्कम्-अङ्केशयाः ।
अस्माकं तु मनोरथ-उपरचित-प्रासाद-वापी-तट-
क्रीडा-कानन-केलि-कौतुक-जुषाम्-आयुः
परिक्षीयते ।। 15 ।।
भिक्षाशनं तदपि नीरसमेकवारं
शय्या च भूः परिजनो
निजदेहमात्रम् ।
वस्त्रं सुजीर्णशतखण्डमयी
च कन्था
हा हा तथापि विषयान्न
जहाति चेतः ।। 16 ।।
सुजीर्ण - विशीर्ण
विषयान्न जहाति चेतः
- विषया न परित्यजन्ति
भिक्षा-अशनं तत्-अपि
नीरसम्-एक-वारं
शय्या च भूः परिजनो
निज-देह-मात्रम् ।
वस्त्रं सुजीर्ण-शत-खण्डमयी
च कन्था
हा हा तथा-अपि विषयान्-न
जहाति चेतः ।। 16 ।।
स्तनौ मांसग्रन्थी
कनककलशावित्युपमितौ
मुखं श्लेष्मागारं
तदपि च शशाङ्केन तुलितम् ।
स्रवन्मूत्रक्लिन्नं
करिवरशिरःस्पर्धी जघनम्-
अहो निन्द्यं रूपं
कविजनविशेषैर्गुरु कृतम् ।। 17
।।
अहो निन्द्यं - मुहुर्निन्द्यं
स्तनौ मांस-ग्रन्थी
कनक-कलशौ-इति-उपमितौ
मुखं श्लेष्म-अगारं
तत्-अपि च शशाङ्केन तुलितम् ।
स्रवन्-मूत्र-क्लिन्नं
करि-वर-शिरः-स्पर्धी जघनम्-
अहो निन्द्यं रूपं
कवि-जन-विशेषैः-गुरु कृतम् ।। 17
।।
एको रागिषु राजते
प्रियतमादेहार्धहारी हरो
नीरागेषु जनो विमुक्तललनासङ्गो
न यस्मात्परः ।
दुर्वारस्मरबाणपन्नगविषव्याविद्धमुग्धो
जनः
शेषः कामविडम्बितान्न
विषयान्भोक्तुं न मोक्तुम् क्षमः ।। 18
।।
एको रागिषु राजते
प्रियतमा-देह-अर्ध-हारी हरो
नीरागेषु जनो विमुक्त-ललना-सङ्गो
न यस्मात्-परः ।
दुर्वार-स्मर-बाण-पन्नग-विष-व्याविद्ध-मुग्धो
जनः
शेषः काम-विडम्बितान्-न
विषयान्-भोक्तुं न मोक्तुम् क्षमः ।। 18
।।
अजानन्माहात्म्यं
पततु शलभो दीपदहने
स मीनोऽप्यज्ञानाद्बडिशयुतमश्नातु
पिशितम् ।
विजानन्तोऽप्येते
वयमिह विपज्जालजटिलान्-
न मुञ्चामः कामानहह
गहनो मोहमहिमा ।। 19
।।
अजानन्माहात्म्यं
- अजानन्दाहात्म्यं
शलभो दीपदहने - शलभस्तीव्रदहने
अजानन्-माहात्म्यं
पततु शलभो दीप-दहने
स मीनः-अपि-अज्ञानात्-बडिश-युतम्-अश्नातु
पिशितम् ।
विजानन्तः-अपि-एते
वयम्-इह विपत्-जाल-जटिलान्-
न मुञ्चामः कामान्-अहह
गहनो मोह-महिमा ।। 19
।।
तृषा शुष्यत्यास्ये
पिबति सलिलं स्वादु सुरभि
क्षुधार्तः सञ्शालीन्
कवलयति शाकादिवलितान् ।
प्रदीप्ते रागाग्नौ
सुदृढतरमाश्लिष्यति वधूं
प्रतीकारो व्याधेः
सुखमिति विपर्यस्यति जनः ।। 20
।।
स्वादु सुरभि - शीतमधुरं
;
सञ्शालिन्
- शाल्यन्नं
शाकादिवालितान्
- मांसादिकलितम् ; रागाग्नौ
- कामाग्नौ
आश्लिष्यति - आलिङ्गति
;
प्रतीकारो
- प्रतीकारं
तृषा शुष्यति-आस्ये
पिबति सलिलं स्वादु सुरभि
क्षुधा-आर्तः सञ्शालीन्
कवलयति शाकादि-वलितान् ।
प्रदीप्ते राग-अग्नौ
सुदृढतरम्-आश्लिष्यति वधूं
प्रतीकारो व्याधेः
सुखम्-इति विपर्यस्यति जनः ।। 20 ।
तुङ्गं वेश्म सुताः
सतामभिमताः संख्यातिगाः संपदः
कल्याणी दयिता वयश्च
नवमित्यज्ञानमूढो जनः ।
मत्वा विश्वमनश्वरं
निविशते संसारकारागृहे
संदृश्य क्षणभङ्गुरं
तदखिलं धन्यस्तु संन्यस्यति ।। 21
।।
तुङ्गं वेश्म सुताः
सताम्-अभिमताः संख्या-अतिगाः संपदः
कल्याणी दयिता वयः-च
नवम्-इति-अज्ञान-मूढो जनः ।
मत्वा विश्वम्-अनश्वरं
निविशते संसार-कारागृहे
संदृश्य क्षण-भङ्गुरं
तत्-अखिलं धन्यः-तु संन्यस्यति ।। 21
।।
दीना दीनमुखैः सदैव
शिशुकैराकृष्टजीर्णाम्बरा
क्रोशद्भिः क्षुधितैर्निरन्नविधुरा
दृश्या न चेद्गेहिनी ।
याच्ञाभङ्गभयेन गद्गदगलत्त्रुट्यद्विलीनाक्षरं
को देहीति वदेत्स्वदग्धजठरस्यार्थे
मनस्वी पुमान् ।। 22
।।
दीना दीन-मुखैः सदा-एव
शिशुकैः-आकृष्ट-जीर्ण-अम्बरा
क्रोशद्भिः क्षुधितैः-निरन्न-विधुरा
दृश्या न चेद्-गेहिनी ।
याच्ञा-भङ्ग-भयेन
गद्गद-गलत्-त्रुट्यद्-विलीन-अक्षरं
को देहि-इति वदेत्-स्व-दग्ध-जठरस्य-अर्थे
मनस्वी पुमान् ।। 22
।।
अभिमतमहामानग्रन्थिप्रभेदपटीयसी
गुरुतरगुणग्रामाम्भोजस्फुटोज्ज्वलचन्द्रिका
।
विपुलविलसल्लज्जावल्लीविदारकुठारिका
जठरपिठरी दुष्पूरेयं
करोति विडम्बनम् ।। 23
।।
विदारकुठारिका -
वितानकुठारिका
अभिमत-महा-मान-ग्रन्थि-प्रभेद-पटीयसी
गुरु-तर-गुण-ग्राम-अम्भोज-स्फुट-उज्ज्वल-चन्द्रिका
।
विपुल-विलसत्-लज्जा-वल्ली-विदार-कुठारिका
जठर-पिठरी दुष्पूरा-इयं
करोति विडम्बनम् ।। 23
।।
पुण्ये ग्रामे वने
वा महति सितपटच्छन्नपालीं कपालीं-
आदाय न्यायगर्भद्विजहुतहुतभुग्धूमधूम्रोपकण्ठम्
।
द्वारं द्वारं प्रवृत्तो
वरमुदरदरीपूरणाय क्षुधार्तो
मानी प्राणी स धन्यो
न पुनरनुदिनं तुल्यकुल्येषु दीनः ।। 24
।।
पालीं कपालीं - पालिं
कपालिं ;
आदाय
- ह्यादाय ;
कण्ठम् - कण्ठे ;
प्रवृत्तो
- प्रविष्टो ;
प्राणी स ध्यानो
- प्राणैः सनाथो
पुण्ये ग्रामे वने
वा महति सित-पट-छन्न-पालीं कपालीं-
आदाय न्याय-गर्भ-द्विज-हुत-हुतभुग्-धूम-धूम्र-उपकण्ठम्
।
द्वारं द्वारं प्रवृत्तो
वरम्-उदर-दरी-पूरणाय क्षुधा-आर्तो
मानी प्राणी स धन्यो
न पुनः-अनुदिनं तुल्य-कुल्येषु दीनः ।। 24
।।
गङ्गातरङ्गहिमशीकरशीतलानि
विद्याधराध्युषितचारुशिलातलानि
।
स्थानानि किं हिमवतः
प्रलयं गतानि
यत्सावमानपरपिण्डरता
मनुष्याः ।। 25 ।।
हिमशीकर - कणशीकर
गङ्गा-तरङ्ग-हिम-शीकर-शीतलानि
विद्याधर-अध्युषित-चारु-शिला-तलानि
।
स्थानानि किं हिमवतः
प्रलयं गतानि
यत्-सावमान-पर-पिण्ड-रता
मनुष्याः ।। 25 ।।
किं कन्दाः कन्दरेभ्यः
प्रलयमुपगता निर्झरा वा गिरिभ्यः
प्रध्वस्ता वा तरुभ्यः
सरसफलभृतो वल्कलिन्यश्च शाखाः ।
वीक्ष्यन्ते यन्मुखानि
प्रसभमपगतप्रश्रयाणां खलानां
दुःखोपात्ताल्पवित्तस्मयपवनवशान्नर्तितभ्रूलतानि
।। 26
।।
दुःखोपात्ताल्प
- दुःखाप्तस्वल्प
किं कन्दाः कन्दरेभ्यः
प्रलयम्-उपगता निर्झरा वा गिरिभ्यः
प्रध्वस्ता वा तरुभ्यः
सरस-फल-भृतो वल्कलिन्यश्च शाखाः ।
वीक्ष्यन्ते यत्-मुखानि
प्रसभम्-अपगत-प्रश्रयाणां खलानां
दुःख-उपात्त-अल्प-वित्त-स्मय-पवन-वशात्-नर्तित-भ्रू-लतानि
।। 26
।।
पुण्यैर्मूलफलैः
प्रिय प्रणयिनीं वृत्तिं कुरुष्वाधुना
भूशय्यानववल्कलैरकृपणैरुत्तिष्ठ
यावो वनम् ।
क्षुद्राणामविवेकमूढमनसां
यत्रेश्वराणां सदा
वित्तव्याधिविकारविह्वलगिरां
नामापि न श्रूयते ।। 27
।।
फलैः प्रिय - फलैस्तथा
भूशय्यानववल्कलैर्
- भूशय्यां नवपल्लवैर्
पुण्यैः-मूल-फलैः
प्रिय प्रणयिनीं वृत्तिं कुरुष्व-अधुना
भू-शय्या-नव-वल्कलैः-अकृपणैः-उत्तिष्ठ
यावो वनम् ।
क्षुद्राणाम्-अविवेक-मूढ-मनसां
यत्र-ईश्वराणां सदा
वित्त-व्याधि-विकार-विह्वल-गिरां
नाम-अपि न श्रूयते ।। 27
।।
फलं स्वेच्छालभ्यं
प्रतिवनमखेदं क्षितिरुहां
पयः स्थाने स्थाने
शिशिरमधुरं पुण्यसरिताम् ।
मृदुस्पर्शा शय्या
सुललितलतापल्लवमयी
सहन्ते संतापं तदपि
धनिनां द्वारि कृपणाः ।। 28
।।
फलं स्व-इच्छा-लभ्यं
प्रति-वनम्-अखेदं क्षिति-रुहां
पयः स्थाने स्थाने
शिशिर-मधुरं पुण्य-सरिताम् ।
मृदु-स्पर्शा शय्या
सुललित-लता-पल्लव-मयी
सहन्ते संतापं तत्-अपि
धनिनां द्वारि कृपणाः ।। 28
।।
ये वर्धन्ते धनपतिपुरःप्रार्थनादुःखभाजो
ये चाल्पत्वं दधति
विषयाक्षेपपर्यस्तबुद्धेः ।
तेषामन्तःस्फुरितहसितं
वासराणां स्मरेयं
ध्यानच्छेदे शिखरिकुहरग्रावशय्यानिषण्णः
।। 29
।।
वर्धन्ते - वर्तन्ते
;
पर्यस्त
- पर्याप्त
वासराणां - वासराणि
ये वर्धन्ते धन-पति-पुरः-प्रार्थना-दुःख-भाजो
ये च-अल्पत्वं दधति
विषय-आक्षेप-पर्यस्त-बुद्धेः ।
तेषाम्-अन्तः-स्फुरित-हसितं
वासराणां स्मरेयं
ध्यानच्छेदे शिखरि-कुहर-ग्राव-शय्या-निषण्णः
।। 29
।।
ये संतोषनिरन्तरप्रमुदितास्तेषां
न भिन्ना मुदो
ये त्वन्ये धनलोभसंकुलधियस्तेषां
न तृष्णा हता ।
इत्थं कस्य कृते
कृतः स विधिना तादृक्पदं संपदां
स्वात्मन्येव समाप्तहेममहिमा
मेरुर्न मे रोचते ।। 30
।।
धनलोभ - धनलुब्ध
;
तादृक्पदं
- कीदृक्पदं
ये संतोष-निरन्तर-प्रमुदिताः-तेषां
न भिन्ना मुदो
ये तु-अन्ये धन-लोभ-संकुल-धियः-तेषां
न तृष्णा हता ।
इत्थं कस्य कृते
कृतः स विधिना तादृक्-पदं संपदां
स्वात्मनि-एव समाप्त-हेम-महिमा
मेरुः-न मे रोचते ।। 30 ।।
भिक्षाहारमदैन्यमप्रतिसुखं
भीतिच्छिदं सर्वदा
दुर्मात्सर्यमदाभिमानमथनं
दुःखौघविध्वंसनम् ।
सर्वत्रान्वहमप्रयत्नसुलभं
साधुप्रियं पावनं
शम्भोः सत्त्रमवार्यमक्षयनिधिं
शंसन्ति योगीश्वराः ।। 31
।।
सर्वदा - सर्वतो
भिक्षा-आहारम्-अदैन्यम्-अप्रति-सुखं
भीति-छिदं सर्वदा
दुर्-मात्सर्य-मद-अभिमान-मथनं
दुःख-औघ-विध्वंसनम् ।
सर्वत्र-अन्वहम्-अप्रयत्न-सुलभं
साधु-प्रियं पावनं
शम्भोः सत्त्रम्-अवार्यम्-अक्षय-निधिं
शंसन्ति योगि-ईश्वराः ।। 31
।।
भोगे रोगभयं कुले
च्युतिभयं वित्ते नृपालाद्भयं
माने दैन्यभयं बले
रिपुभयं रूपे जराया भयम् ।
शास्त्रे वादभयं
गुणे खलभयं काये कृतान्ताद्भयं
सर्वं वस्तु भयान्वितं
भुवि नृणां वैराग्यमेवाभयम् ।। 32
।।
वादभयं - वादिभयं
; सर्वे वस्तु - सर्वं
वस्तु
भोगे रोग-भयं कुले
च्युति-भयं वित्ते नृपालात्-भयं
माने दैन्य-भयं बले
रिपु-भयं रूपे जराया भयम् ।
शास्त्रे वाद-भयं
गुणे खल-भयं काये कृतान्तात्-भयं
सर्वं वस्तु भय-अन्वितं
भुवि नृणां वैराग्यम्-एव-अभयम् ।। 32
।।
आक्रान्तं मरणेन
जन्म जरया चात्युज्ज्वलं यौवनं
संतोषो धनलिप्सया
शमसुखं प्रौढाङ्गनाविभ्रमैः ।
लोकैर्मत्सरिभिर्गुणा
वनभुवो व्यालैर्नृपा दुर्जनैर्-
अस्थैर्येण विभूतयोऽप्युपहता
ग्रस्तं न किं केन वा ।। 33
।।
जरया - जरसा
आक्रान्तं मरणेन
जन्म जरया च-अति-उज्ज्वलं यौवनं
संतोषो धन-लिप्सया
शम-सुखं प्रौढ-अङ्गना-विभ्रमैः ।
लोकैः-मत्सरिभिः-गुणा
वन-भुवो व्यालैः-नृपा दुर्जनैः-
अस्थैर्येण विभूतयः-अपि-उपहता
ग्रस्तं न किं केन वा ।। 33
।।
आधिव्याधिशतैर्जनस्य
विविधैरारोग्यमुन्मूल्यते
लक्ष्मीर्यत्र पतन्ति
तत्र विवृतद्वारा इव व्यापदः ।
जातं जातमवश्यमाशु
विवशं मृत्युः करोत्यात्मसात्-
तत्किं नाम निरङ्कुशेन
विधिना यन्निर्मितं सुस्थिरम् ।। 34
।।
नाम - तेन
आधि-व्याधि-शतैः-जनस्य
विविधैः-आरोग्यम्-उन्मूल्यते
लक्ष्मीः-यत्र पतन्ति
तत्र विवृत-द्वारा इव व्यापदः ।
जातं जातम्-अवश्यम्-आशु
विवशं मृत्युः करोति-आत्मसात्-
तत्किं नाम निरङ्कुशेन
विधिना यत्-निर्मितं सुस्थिरम् ।। 34
।।
भोगास्तुङ्गतरङ्गभङ्गचपला
प्राणाः क्षणध्वंसिन-
स्तोकान्येव दिनानि
यौवनसुखं प्रीतिः प्रियेष्वस्थिरा ।
तत्संसारमसारमेव
निखिलं बुद्ध्वा बुद्धा बोधका
लोकानुग्रहपेशलेन
मनसा यत्नः समाधीयताम् ।। 35
।।
चपला - तरलाः ;
सुखं
प्रीतिः - सुख स्फूर्तिः
प्रियेष्वस्थिरा
- प्रियासु स्थिता ; बोधका
- बोधकाः
भोगाः-तुङ्ग-तरङ्ग-भङ्ग-चपला
प्राणाः क्षण-ध्वंसिनः
स्तोकानि-एव दिनानि
यौवन-सुखं प्रीतिः प्रियेषु-अस्थिरा ।
तत्-संसारम्-असारम्-एव
निखिलं बुद्ध्वा बुधा बोधका
लोक-अनुग्रह-पेशलेन
मनसा यत्नः समाधीयताम् ।। 35
।।
भोगा मेघवितानमध्यविलसत्सौदामिनीचञ्चला
आयुर्वायुविघट्टिताभ्रपटलीलीनाम्बुवद्भङ्गुरम्
।
लोला यौवनलालना तनुभृतामित्याकलय्य
द्रुतम्
योगे धैर्यसमाधिसिद्धिसुलभे
बुद्धिं विधद्ध्वं बुधाः ।। 36
।।
विघट्टिताभ्र - विघट्टिताब्ज
;
यौवनलालना
- यौवनलालसाः
सिद्धिसुलभे - सिद्धसुलभे
;
विधद्ध्वं
- विधध्वं
भोगा मेघ-वितान-मध्य-विलसत्-सौदामिनी-चञ्चला
आयुः-वायु-विघट्टित-अभ्र-पटली-लीन-अम्बुवत्-भङ्गुरम्
।
लोला यौवन-लालना
तनु-भृताम्-इति-आकलय्य द्रुतम्
योगे धैर्य-समाधि-सिद्धि-सुलभे
बुद्धिं विधद्ध्वं बुधाः ।। 36
।।
आयुः कल्लोललोलं
कतिपयदिवसस्थायिनी यौवनश्रीः-
अर्थाः संकल्पकल्पा
घनसमयतडिद्विभ्रमा भोगपूगाः ।
कण्ठाश्लेषोपगूढं
तदपि च न चिरं यत्प्रियाभिः प्रणीतं
ब्रह्मण्यासक्तचित्ता
भवत भवभयाम्भोधिपारं तरीतुम् ।। 37
।।
आयुः कल्लोल-लोलं
कतिपय-दिवस-स्थायिनी यौवन-श्रीः-
अर्थाः संकल्प-कल्पा
घन-समय-तडित्-विभ्रमा भोग-पूगाः ।
कण्ठ-आश्लेष-उपगूढं
तत्-अपि च न चिरं यत्-प्रियाभिः प्रणीतं
ब्रह्मणि-आसक्त-चित्ता
भवत भव-भय-अम्भोधि-पारं तरीतुम् ।। 37
।।
कृच्छ्रेणामेध्यमध्ये
नियमिततनुभिः स्थीयते गर्भवासे
कान्ताविश्लेषदुःखव्यतिकरविषमो
यौवने चोपभोगः ।
नारीणामप्यवज्ञा
विलसति नियतं वृद्धभावोऽप्यसाधुः
संसारे रे मनुष्या
वदत यदि सुखं स्वल्पमप्यस्ति किंचित् ।। 38
।।
नारीणामप्यवज्ञा
विलसति नियतं - वामाक्षीणामवज्ञाविहसितवसतिः
कृच्छ्रेण-अमेध्य-मध्ये
नियमित-तनुभिः स्थीयते गर्भ-वासे
कान्ता-विश्लेष-दुःख-व्यतिकर-विषमो
यौवने च-उपभोगः ।
नारीणाम्-अपि-अवज्ञा
विलसति नियतं वृद्ध-भावः-अपि-असाधुः
संसारे रे मनुष्या
वदत यदि सुखं स्वल्पम्-अपि-अस्ति किंचित् ।। 38
।।
व्याघ्रीव तिष्ठति
जरा परितर्जयन्ती
रोगाश्च शत्रव इव
प्रहरन्ति देहम् ।
आयुः परिस्रवति भिन्नघटादिवाम्भो
लोकस्तथाप्यहितमाचरतीति
चित्रम् ।। 39 ।।
व्याघ्री-इव तिष्ठति
जरा परितर्जयन्ती
रोगाः-च शत्रव इव
प्रहरन्ति देहम् ।
आयुः परिस्रवति भिन्न-घटात्-इव-अम्भो
लोकः-तथा-अपि-अहितम्-आचरति-इति
चित्रम् ।। 39 ।।
भोगा भङ्गुरवृत्तयो
बहुविधास्तैरेव चायं भवः-
तत्कस्येह कृते परिभ्रमत
रे लोकाः कृतं चेष्टितैः ।
आशापाशशतोपशान्तिविशदं
चेतः समाधीयतां
कामोच्छित्तिवशे
स्वधामनि यदि श्रद्धेयमस्मद्वचः ।। 40
।।
कामोच्छित्तिवशे
- कामोत्पत्तिवशात्
भोगा भङ्गुर-वृत्तयो
बहु-विधाः-तैः-एव च-अयं भवः-
तत्-कस्य-इह कृते
परिभ्रमत रे लोकाः कृतं चेष्टितैः ।
आशा-पाश-शत-उपशान्ति-विशदं
चेतः समाधीयतां
काम-उच्छित्ति-वशे
स्वधामनि यदि श्रद्धेयम्-अस्मद्-वचः ।। 40 ।।
वैराग्य शतकम्
ब्रह्मेन्द्रादिमरुद्गणांस्तृणकणान्यत्र
स्थितो मन्यते
यत्स्वादाद्विरसा
भवन्ति विभवास्त्रैलोक्यराज्यादयः ।
भोगः कोऽपि स एक
एव परमो नित्योदितो जृम्भते
भो साधो क्षणभङ्गुरे
तदितरे भोगे रतिं मा कृथा ।। 41
।।
मा कृथा - मा कृथाः
ब्रह्मा-इन्द्र-आदि-मरुद्गणान्-तृण-कणान्-यत्र
स्थितो मन्यते
यत्-स्वादाद्-विरसा
भवन्ति विभवाः-त्रैलोक्य-राज्य-आदयः ।
भोगः कः-अपि स एक
एव परमो नित्य-उदितो जृम्भते
भो साधो क्षण-भङ्गुरे
तत्-इतरे भोगे रतिं मा कृथा ।। 41
।।
सा रम्या नगरी महान्स
नृपतिः सामन्तचक्रं च तत्-
पार्श्वे तस्य च
सा विदग्धपरिषत्ताश्चन्द्रबिम्बाननाः ।
उत्सिक्तः स च राजपुत्रनिवहस्ते
बन्दिनस्ताः कथाः
सर्वं यस्य वशादगात्स्मृतिपथं
कालाय तस्मै नमः ।। 42
।।
उत्सिक्तः - उद्वृत्तः
सा रम्या नगरी महान्-स
नृपतिः सामन्त-चक्रं च तत्-
पार्श्वे तस्य च
सा विदग्ध-परिषत्-ताः-चन्द्र-बिम्ब-आननाः ।
उत्सिक्तः स च राज-पुत्र-निवहः-ते
बन्दिनः-ताः कथाः
सर्वं यस्य वशात्-अगात्-स्मृति-पथं
कालाय तस्मै नमः ।। 42
।।
यत्रानेके क्वचिदपि
गृहे तत्र तिष्ठत्यथैको
यत्राप्येकस्तदनु
बहवस्तत्र नैकोऽपि चान्ते ।
इत्थं चेमौ रजनिदिवसौ
दोलयन्द्वाविवाक्षौ
कालः काल्या भुवनफलके
क्रीडति प्राणिशारैः ।। 43
।।
यत्रानेके - यत्रानेकः
;
चेमौ
- नेयौ ;
दोलयन् - लोलयन्
; काल्या - कल्यो
यत्र-अनेके क्वचित्-अपि
गृहे तत्र तिष्ठति-अथ-एको
यत्र-अपि-एकः-तदनु
बहवः-तत्र न-एकः-अपि च-अन्ते ।
इत्थं च-इमौ रजनि-दिवसौ
दोलयन्-द्वौ-इवौ-अक्षौ
कालः काल्या भुवन-फलके
क्रीडति प्राणि-शारैः ।। 43
।।
आदित्यस्य गतागतैरहरहः
संक्षीयते जीवितं
व्यापारैर्बहुकार्यभारगुरुभिः
कालो न विज्ञायते ।
दृष्ट्वा जन्मजराविपत्तिमरणं
त्रासश्च नोत्पद्यते
पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं
जगत् ।। 44
।।
कालो न विज्ञायते
- कालोऽपि न ज्ञायते
आदित्यस्य गतागतैः-अहरहः
संक्षीयते जीवितं
व्यापारैः-बहु-कार्य-भार-गुरुभिः
कालो न विज्ञायते ।
दृष्ट्वा जन्म-जरा-विपत्ति-मरणं
त्रासः-च न-उत्पद्यते
पीत्वा मोह-मयीं
प्रमाद-मदिराम्-उन्मत्त-भूतं जगत् ।। 44
।।
रात्रिः सैव पुनः
सा एव दिवसो मत्वाबुधा जन्तवो
धावन्त्युद्यमिनस्तथैव
निभृतप्रारब्धतत्तत्क्रियाः ।
व्यापारैः पुनरुक्तभुक्तविषयैरेवंविधेनामुना
संसारेण कदर्थिताः
कथमहो मोहान्न लज्जामहे ।। 45
।।
मत्वाबुधा - मत्वा
मुधा
भुक्तविषयैरेवं
- भूत विषयैरित्थं
कथमहो - वयमहो
रात्रिः स-एव पुनः
सा एव दिवसो मत्वा-अबुधा जन्तवो
धावन्ति-उद्यमिनः-तथा-एव
निभृत-प्रारब्ध-तत्-तत्-क्रियाः ।
व्यापारैः पुनरुक्त-भुक्त-विषयैः-एवं-विधेन-अमुना
संसारेण कदर्थिताः
कथम्-अहो मोहात्-न लज्जामहे ।। 45
।।
न ध्यातं पदमीश्वरस्य
विधिवत्संसारविच्छित्तये
स्वर्गद्वारकपाटपाटनपटुर्धर्मोऽपि
नोपार्जितः ।
रामापीनपयोधरोरुयुगलं
स्वप्नेऽपि नालिङ्गितं
मातुः केवलमेव यौवनवनच्छेदे
कुठारा वयम् ।। 46
।।
कपाट - कवाट ;
रामा
- नारी
न ध्यातं पदम्-ईश्वरस्य
विधिवत्-संसार-विच्छित्तये
स्वर्ग-द्वार-कपाट-पाटन-पटुः-धर्मः-अपि
न-उपार्जितः ।
रामा-पीन-पयोधर-ऊरु-युगलं
स्वप्ने-अपि न-आलिङ्गितं
मातुः केवलम्-एव
यौवन-वन-छेदे कुठारा वयम् ।। 46
।।
नाभ्यस्ता भुवि वादिवृन्ददमनी
विद्या विनीतोचिता
खड्गाग्रैः करिकुम्भपीठदलनैर्नाकं
न नीतं यशः ।
कान्ताकोमलपल्लवाधररसः
पीतो न चन्द्रोदये
तारुण्यं गतमेव निष्फलमहो
शून्यालये दीपवत् ।। 47
।।
भुवि वादि - प्रतिवादि
न-अभ्यस्ता भुवि
वादि-वृन्द-दमनी विद्या विनीत-उचिता
खड्ग-अग्रैः करि-कुम्भ-पीठ-दलनैः-नाकं
न नीतं यशः ।
कान्ता-कोमल-पल्लव-अधर-रसः
पीतो न चन्द्र-उदये
तारुण्यं गतम्-एव
निष्फलम्-अहो शून्य-आलये दीपवत् ।। 47
।।
विद्या नाधिगता कलङ्करहिता
वित्तं च नोपार्जितं
शुश्रूषापि समाहितेन
मनसा पित्रोर्न संपादिता ।
आलोलायतलोचना युवतयः
स्वप्नेऽपि नालिङ्गिताः
कालोऽयं परपिण्डलोलुपतया
काकैरिव प्रेरितः ।। 48
।।
युवतयाः - प्रियतमाः
;
प्रेरितः
- प्रेर्यते
विद्या न-अधिगता
कलङ्क-रहिता वित्तं च न-उपार्जितं
शुश्रूषा-अपि समाहितेन
मनसा पित्रोः-न संपादिता ।
आलोल-आयत-लोचना युवतयः
स्वप्ने-अपि न-आलिङ्गिताः
कालः-अयं पर-पिण्ड-लोलुपतया
काकैः-इव प्रेरितः ।। 48
।।
वयं येभ्यो जाताश्चिरपरिगता
एव खलु ते
समं ये संवृद्धाः
स्मृतिविषयतां तेऽपि गमिताः ।
इदानीमेते स्मः प्रतिदिवसमासन्नपतना
गतास्तुल्यावस्थां
सिकतिलनदीतीरतरुभिः ।। 49
।।
परिगता - परिचिता
;
समं
ये - समं यैः
वयं येभ्यो जाताः-चिर-परिगता
एव खलु ते
समं ये संवृद्धाः
स्मृति-विषयतां ते-अपि गमिताः ।
इदानीम्-एते स्मः
प्रति-दिवसम्-आसन्न-पतना
गताः-तुल्य-अवस्थां
सिकतिल-नदी-तीर-तरुभिः ।। 49
।।
आयुर्वर्षशतं नृणां
परिमितं रात्रौ तदर्धं गतं
तस्यार्धस्य परस्य
चार्धमपरं बालत्ववृद्धत्वयोः ।
शेषं व्याधिवियोगदुःखसहितं
सेवादिभिर्नीयते
जीवे वारितरङ्गचञ्चलतरे
सौख्यं कुतः प्राणिनाम् ।। 50
।।
आयुः-वर्ष-शतं नृणां
परिमितं रात्रौ तत्-अर्धं गतं
तस्य-अर्धस्य परस्य
च-अर्धम्-अपरं बालत्व-वृद्धत्वयोः ।
शेषं व्याधि-वियोग-दुःख-सहितं
सेवा-आदिभिः-नीयते
जीवे वारि-तरङ्ग-चञ्चलतरे
सौख्यं कुतः प्राणिनाम् ।। 50 ।।
क्षणं बालो भूत्वा
क्षणमपि युवा कामरसिकः
क्षणं वित्तैर्हीनः
क्षणमपि च संपूर्णविभवः ।
जराजीर्णैरङ्गैर्नट
इव वलीमण्डिततनुर्-
नरः संसारान्ते विशति
यमधानीजवनिकाम् ।। 51
।।
क्षणं बालो भूत्वा
क्षणम्-अपि युवा काम-रसिकः
क्षणं वित्तैः-हीनः
क्षणम्-अपि च संपूर्ण-विभवः ।
जरा-जीर्णैः-अङ्गैः-नट
इव वली-मण्डित-तनुः-
नरः संसार-अन्ते
विशति यम-धानी-जवनिकाम् ।। 51
।।
त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताः
ख्यातस्त्वं विभवैर्यशांसि
कवयो दिक्षु प्रतन्वन्ति नः ।
इत्थं मानद नातिदूरमुभयोरप्यावयोरन्तरं
यद्यस्मासु पराङ्मुखोऽसि
वयमप्येकान्ततो निस्पृहाः ।। 52
।।
मानद नाति - मानधनाति
त्वं राजा वयम्-अपि-उपासित-गुरु-प्रज्ञा-अभिमान-उन्नताः
ख्यातः-त्वं विभवैः-यशांसि
कवयो दिक्षु प्रतन्वन्ति नः ।
इत्थं मानद न-अति-दूरम्-उभयोः-अपि-आवयोः-अन्तरं
यदि-अस्मासु पराक्-मुखः-असि
वयम्-अपि-एकान्ततो निस्पृहाः ।। 52
।।
अर्थानामीशिषे त्वं
वयमपि च गिरामीश्महे यावदर्थं
शूरस्त्वं वादिदर्पज्वरशमनविधावक्षयं
पाटवं नः ।
सेवन्ते त्वां धनाढ्या
मतिमलहतये मामपि श्रोतुकामा
मय्यप्यास्था न तत्तत्त्वयि
मम सुतरामेष राजन्-गतोस्मि ।। 53
।।
दर्पज्वर - दर्पव्युप
;
न
तत्तत्त्वयि - न ते चेत्त्वयि
सुतरामेष - नित्ररामेव
;
राजन्-गतोस्मि
- राजन्ननास्था
अर्थानाम्-ईशिषे
त्वं वयम्-अपि च गिराम्-ईश्महे यावद्-अर्थं
शूरः-त्वं वादि-दर्प-ज्वर-शमन-विधौ-अक्षयं
पाटवं नः ।
सेवन्ते त्वां धन-आढ्या
मति-मल-हतये माम्-अपि श्रोतु-कामा
मयि-अपि-आस्था न
तत्-तत्-त्वयि मम सुतराम्-एष राजन्-गतः-अस्मि ।। 53
।।
वयमिह परितुष्टा
वल्कलैस्त्वं दुकूलैः
सम इह परितोषो निर्विशेषो
विशेषः ।
स तु भवतु दरिद्रो
यस्य तृष्णा विशाला
मनसि च परितुष्टे
कोऽर्थवान्-को दरिद्रः ।। 54
।।
सम इह - सम इव
वयम्-इह परितुष्टा
वल्कलैः-त्वं दुकूलैः
सम इह परितोषो निर्विशेषो
विशेषः ।
स तु भवतु दरिद्रो
यस्य तृष्णा विशाला
मनसि च परितुष्टे
कः-अर्थवान्-कः दरिद्रः ।। 54
।।
फलमलमशनाय स्वादु
पानाय तोयं
शयनमवनिपृष्ठं वल्कले
वाससि च ।
नवधनमधुपानभ्रान्तसर्वेन्द्रियाणाम्-
अविनयमनुमन्तुं नोत्सहे
दुर्जनानाम् ।। 55
।।
शयनमवनिपृष्ठं वल्कले
वाससि च -
क्षितिरपि शयनार्थं
वाससे वल्कलं च
फलम्-अलम्-अशनाय
स्वादु पानाय तोयं
शयनम्-अवनि-पृष्ठं
वल्कले वाससि च ।
नव-धन-मधु-पान-भ्रान्त-सर्व-इन्द्रियाणाम्-
अविनयम्-अनुमन्तुं
न-उत्सहे दुर्जनानाम् ।। 55
।।
अशीमहि वयं भिक्षामाशावासो
वसीमहि
शयीमहि महीपृष्ठे
कुर्वीमहि किमीश्वरैः ।। 56
।।
अशीमहि वयं भिक्षाम्-आशा-वासो
वसीमहि
शयीमहि मही-पृष्ठे
कुर्वीमहि किम्-ईश्वरैः ।। 56
।।
न नटा न विटा न गायका
न परद्रोहनिबद्धबुद्धयः ।
नृपसद्मनि नाम के
वयं कुचभारानमिता न योषितः ।। 57
।।
न परद्रोहनिबद्धबुद्धयः
- न सभ्येतरवादचुञ्चवः
नृपसद्मनि नाम के
वयं - नृपमीक्षितुमत्र के वयं
कुचभारानमिता - स्तनभारानमिता
न नटा न विटा न गायका
न पर-द्रोह-निबद्ध-बुद्धयः ।
नृप-सद्मनि नाम के
वयं कुच-भार-आनमिता न योषितः ।। 57
।।
विपुलहृदयैर्धन्यैः
कैश्चिज्जगज्जनितं पुरा
विधृतमपरैर्दत्तं
चान्यैर्विजित्य तृणं यथा ।
इह हि भुवनान्यन्ये
धीराश्चतुर्दश भुञ्जते
कतिपयपुरस्वाम्ये
पुंसां क एष मदज्वरः ।। 58
।।
धन्यैः कैश्चिज्जगज्जनितं
- ईशैरेतज्जगज्जनितं
विपुल-हृदयैः-धन्यैः
कैश्चित्-जगत्-जनितं पुरा
विधृतम्-अपरैः-दत्तं
च-अन्यैः-विजित्य तृणं यथा ।
इह हि भुवनानि-अन्ये
धीराः-चतुर्दश भुञ्जते
कतिपय-पुर-स्वाम्ये
पुंसां क एष मद-ज्वरः ।। 58
।।
अभुक्तायां यस्यां
क्षणमपि न यातं नृपशतैः-
भुवस्तस्या लाभे
क इव बहुमानः क्षितिभुजाम् ।
तदंशस्याप्यंशे तदवयवलेशेऽपि
पतयो
विषादे कर्तव्ये
विदधति जडाः प्रत्युत मुदम् ।। 59
।।
न यातं - न जातं
;
नृपशतैः
- नृपशतः
क्षितिभुजाम् - क्षितिभृताम्
अभुक्तायां यस्यां
क्षणम्-अपि न यातं नृप-शतैः-
भुवः-तस्या लाभे
क इव बहुमानः क्षिति-भुजाम् ।
तत्-अंशस्य-अपि-अंशे
तत्-अवयव-लेशे-अपि पतयः
विषादे कर्तव्ये
विदधति जडाः प्रत्युत मुदम् ।। 59
।।
मृत्पिण्डो जलरेखया
वलयितः सर्वोऽप्ययं नन्वणुः
स्वांशीकृत्य स एव
संयुगशतैः राज्ञां गणैर्भुज्यते ।
नो दद्युर्ददतेथवा
किमपि ते क्षुद्रा दरिद्रा भृशं
धिग्धिक्तान्पुरुषाधमान्धनकणान्वाञ्छन्ति
तेभ्योऽपि ये ।। 60
।।
स एव संयुगशतैः
- तमेव संगरशतै
गणैर्भुज्यते - गणा
भुञ्जते
नो दद्युर्ददतेथवा
- ते दद्युर्ददतोऽथवा
किमपि ते - किमपरं
मृत्-पिण्डो जल-रेखया
वलयितः सर्वः-अपि-अयं ननु-अणुः
स्व-अंशी-कृत्य स
एव संयुग-शतैः राज्ञां गणैः-भुज्यते ।
नो दद्युः-ददते-अथवा
किम्-अपि ते क्षुद्रा दरिद्रा भृशं
धिक्-धिक्-तान्-पुरुष-अधमान्-धन-कणान्-वाञ्छन्ति
तेभ्यः-अपि ये ।। 60 ।।
स जातः कोऽप्यासीन्मदनरिपुणा
मूर्ध्नि धवलं
कपालं यस्योच्चैर्विनिहितमलंकारविधये
।
नृभिः प्राणत्राणप्रवणमतिभिः
कैश्चिदधुना
नमद्भिः कः पुंसामयमतुलदर्पज्वरभरः
।। 61
।।
स जातः कः-अपि-आसीत्-मदन-रिपुणा
मूर्ध्नि धवलं
कपालं यस्य-उच्चैः-विनिहितम्-अलंकार-विधये
।
नृभिः प्राण-त्राण-प्रवण-मतिभिः
कैश्चिद्-अधुना
नमद्भिः कः पुंसाम्-अयम्-अतुल-दर्प-ज्वर-भरः
।। 61
।।
परेषां चेतांसि प्रतिदिवसमाराध्य
बहु हा
प्रसादं किं नेतुं
विशसि हृदयक्लेशकलिलम् ।
प्रसन्ने त्वय्यन्तःस्वयमुदितचिन्तामणिगुणे
विमुक्तः संकल्पः
किमभिलषितं पुष्यति न ते ।। 62
।।
बहु हा - बहुधा ;
कलिलम्
- कलितम्
चिन्तामणिगुणे -
चिन्तामणिगणो ; विमुक्तः - विविक्तः
परेषां चेतांसि प्रति-दिवसम्-आराध्य
बहु हा
प्रसादं किं नेतुं
विशसि हृदयक्लेश-कलिलम् ।
प्रसन्ने त्वयि-अन्तः-स्वयम्-उदित-चिन्तामणि-गुणे
विमुक्तः संकल्पः
किम्-अभिलषितं पुष्यति न ते ।। 62
।।
परिभ्रमसि किं वृथा
क्वचन चित्त विश्राम्यतां
स्वयं भवति यद्यथा
भवति तत्तथा नान्यथा ।
अतीतमपि न स्मरन्नपि
च भाव्यसंकल्पयन्-
नतर्कितगमागमाननुभवस्व
भोगानिह ।। 63 ।।
वृथा - मुधा
अतीतमपि न स्मरन्नपि
- अतीतमननुस्मरन्नपि
नतर्कितगमागमाननुभवस्व
भोगानिह -
नतर्कितसमागमाननुभवामि
भोगानहम्
परिभ्रमसि किं वृथा
क्वचन चित्त विश्राम्यतां
स्वयं भवति यत्-यथा
भवति तत्-तथा न-अन्यथा ।
अतीतम्-अपि न स्मरन्-अपि
च भावि-असंकल्पयन्-
अतर्कित-गमागमान्-अनुभवस्व
भोगान्-इह ।। 63 ।।
एतस्माद्विरमेन्द्रियार्थगहनादायासकादाश्रय
श्रेयोमार्गमशेषदुःखशमनव्यापारदक्षं
क्षणात् ।
शान्तं भावमुपैहि
संत्यज्य निजां कल्लोललोलां गतिं
मा भूयो भज भङ्गुरां
भवरतिं चेतः प्रसीदाधुना ।। 64
।।
शान्तं भावम् - स्वात्मी
भावम्
एतस्मात्-विरम-इन्द्रिय-अर्थ-गहनात्-आयासकात्-आश्रय
श्रेयो-मार्गम्-अशेष-दुःख-शमन-व्यापार-दक्षं
क्षणात् ।
शान्तं भावम्-उपैहि
संत्यज्य निजां कल्लोल-लोलां गतिं
मा भूयः भज भङ्गुरां
भव-रतिं चेतः प्रसीद-अधुना ।। 64
।।
मोहं मार्जय तामुपार्जय
रतिं चन्द्रार्धचूडामणौ
चेतः स्वर्गतरङ्गिणीतटभुवामासङ्गमङ्गीकुरु
।
को वा वीचिषु बुद्बुदेषु
च तडिल्लेखासु च स्त्रीषु च
ज्वालाग्रेषु च पन्नगेषु
च सरिद्वेगेषु च प्रत्ययः ।। 65
।।
स्त्रीषु - श्रीषु
;
सरिद्वेगेषु
- सुहृद्वर्गेषु
मोहं मार्जय ताम्-उपार्जय
रतिं चन्द्र-अर्ध-चूडामणौ
चेतः स्वर्ग-तरङ्गिणी-तट-भुवाम्-आसङ्गम्-अङ्गीकुरु
।
को वा वीचिषु बुद्बुदेषु
च तडित्-लेखासु च स्त्रीषु च
ज्वाल-अग्रेषु च
पन्नगेषु च सरित्-वेगेषु च प्रत्ययः ।। 65
।।
चेतश्चिन्तय मा रमां
सकृदिमामस्थायिनीमास्थया
भूपालभ्रुकुटीकुटीविहरणव्यापारपण्याङ्गनाम्
।
कन्थाकञ्चुकिताः
प्रविश्य भवनद्वाराणि वारणसी-
रथ्यापङ्क्तिषु पाणिपात्रपतितां
भिक्षामपेक्षामहे ।। 66
।।
कन्थाकञ्चुकिताः
- कन्थाकञ्चुकिनः
चेतः-चिन्तय मा रमां
सकृद्-इमाम्-अस्थायिनीम्-आस्थया
भू-पाल-भ्रुकुटी-कुटी-विहरण-व्यापार-पण्याङ्गनाम्
।
कन्था-कञ्चुकिताः
प्रविश्य भवन-द्वाराणि वारणसी-
रथ्या-पङ्क्तिषु
पाणि-पात्र-पतितां भिक्षाम्-अपेक्षामहे ।। 66
।।
अग्रे गीतं सरसकवयः
पार्श्वतो दाक्षिणात्याः
पृष्ठे लीलावलयरणितं
चामरग्राहिणीनाम् ।
यद्यस्त्येवं कुरु
भवरसास्वादने लम्पटत्वं
नो चेच्चेतः प्रविश
सहसा निर्विकल्पे समाधौ ।। 67
।।
पार्श्वतो - पार्श्वयोः
;
पृष्ठे
- पश्चात्
यद्यस्त्येवं - यद्यस्त्वेवं
अग्रे गीतं सरस-कवयः
पार्श्वतो दाक्षिणात्याः
पृष्ठे लीला-वलय-रणितं
चामर-ग्राहिणीनाम् ।
यदि-अस्ति-एवं कुरु
भव-रस-आस्वादने लम्पटत्वं
नो चेत्-चेतः प्रविश
सहसा निर्विकल्पे समाधौ ।। 67
।।
प्राप्ताः श्रियः
सकलकामदुघास्ततः किं
दत्तं पदं शिरसि
विद्विषतां ततः किम् ।
संमानिताः प्रणयिनो
विभवैस्ततः किं
कल्पं स्थितं तनुभृतां
तनुभिस्ततः किम् ।। 68
।।
दत्तं - न्यस्तं
;
संमानिताः
- सम्पादिताः
कल्पं स्थितं तनुभृतां
तनुभिस्ततः -
कल्पस्थितास्तनुभृतां
तनवस्ततः
प्राप्ताः श्रियः
सकल-काम-दुघाः-ततः किं
दत्तं पदं शिरसि
विद्विषतां ततः किम् ।
संमानिताः प्रणयिनो
विभवैः-ततः किं
कल्पं स्थितं तनु-भृतां
तनुभिः-ततः किम् ।। 68
।।
भक्तिर्भवे मरणजन्मभयं
हृदिस्थं
स्नेहो न बन्धुषु
न मन्मथजा विकाराः ।
संसर्गदोषरहिता विजना
वनान्ता
वैराग्यमस्ति किमतः
परमर्थनीयम् ।। 69
।।
किमतः - किमितः
भक्तिः-भवे मरण-जन्म-भयं
हृदिस्थं
स्नेहो न बन्धुषु
न मन्मथजा विकाराः ।
संसर्ग-दोष-रहिता
विजना वनान्ता
वैराग्यम्-अस्ति
किम्-अतः परम्-अर्थनीयम् ।। 69
।।
तस्मादनन्तमजरं परमं
विकासि
तद्ब्रह्म चिन्तय
किमेभिरसद्विकल्पैः ।
यस्यानुषाङ्गिण इमे
भुवनाधिपत्य-
भोगादयः कृपणलोकमता
भवन्ति ।। 70 ।।
तस्मात्-अनन्तम्-अजरं
परमं विकासि
तत्-ब्रह्म चिन्तय
किम्-एभिः-असत्-विकल्पैः ।
यस्य-अनुषाङ्गिण
इमे भुवन-अधिपत्य-
भोगादयः कृपण-लोक-मता
भवन्ति ।। 70 ।।
पातालमाविशसि यासि
नभो विलङ्घ्य
दिङ्मण्डलं भ्रमसि
मानस चापलेन ।
भ्रान्त्यापि जातु
विमलं कथमात्मनीनं
तद्ब्रह्म न स्मरसि
निर्वृतिमेषि येन ।। 71
।।
तद्ब्रह्म न स्मरसि
- न ब्रह्म संस्मरसि
पातालम्-आविशसि यासि
नभो विलङ्घ्य
दिक्-मण्डलं भ्रमसि
मानस चापलेन ।
भ्रान्त्या-अपि जातु
विमलं कथम्-आत्मनीनं
तत्-ब्रह्म न स्मरसि
निर्वृतिम्-एषि येन ।। 71
।।
किं वेदैः स्मृतिभिः
पुराणपठनैः शास्त्रैर्महाविस्तरैः
स्वर्गग्रामकुटीनिवासफलदैः
कर्मक्रियाविभ्रमैः ।
मुक्त्वैकं भवबन्धदुःखरचनाविध्वंसकालानलं
स्वात्मानन्दपदप्रवेशकलनं
शेषा वणिग्वृत्तयः ।। 72
।।
भवबन्धदुःख - भवदुःखभार
शेषा वणिग्वृत्तयः
- शेषैर्वणिग्वृत्तिभिः
किं वेदैः स्मृतिभिः
पुराण-पठनैः शास्त्रैः-महा-विस्तरैः
स्वर्ग-ग्राम-कुटी-निवास-फलदैः
कर्म-क्रिया-विभ्रमैः ।
मुक्त्वा-एकं भव-बन्ध-दुःख-रचना-विध्वंस-काल-अनलं
स्वात्म-आनन्द-पद-प्रवेश-कलनं
शेषा वणिक्-वृत्तयः ।। 72
।।
यदा मेरुः श्रीमान्निपतति
युगान्ताग्निनिहतः
समुद्राः शुष्यन्ति
प्रचुरमकरग्राहनिलयाः ।
धरा गच्छत्यन्तं
धरणीधरपादैरपि धृता
शरीरे का वार्ता
करिकलभकर्णाग्रचपले ।। 73
।।
यदा मेरुः - यतो
मेरुः ;
निहतः
- वलितः
यदा मेरुः श्रीमान्-निपतति
युग-अन्त-अग्नि-निहतः
समुद्राः शुष्यन्ति
प्रचुर-मकर-ग्राह-निलयाः ।
धरा गच्छति-अन्तं
धरणी-धर-पादैः-अपि धृता
शरीरे का वार्ता
करि-कलभ-कर्ण-अग्र-चपले ।। 73
।।
गात्रं संकुचितं
गतिर्विगलिता भ्रष्टा च दन्तावलिः-
दृष्टिर्नश्यति वर्धते
बधिरता वक्त्रं च लालायते ।
वाक्यं नाद्रियते
च बान्धवजनो भार्या न शुश्रूषते
हा कष्टं पुरुषस्य
जीर्णवयसः पुत्रोऽप्यमित्रायते ।। 74
।।
गात्रं संकुचितं
गतिः-विगलिता भ्रष्टा च दन्त-आवलिः-
दृष्टिः-नश्यति वर्धते
बधिरता वक्त्रं च लालायते ।
वाक्यं न-अद्रियते
च बान्धव-जनः भार्या न शुश्रूषते
हा कष्टं पुरुषस्य
जीर्ण-वयसः पुत्रः-अपि-अमित्रायते ।। 74
।।
वर्णं सितं शिरसि
वीक्ष्य शिरोरुहाणां
स्थानं जरापरिभवस्य
यदेव पुंसाम् ।
आरोपितास्थिशकलं
परिहृत्य यान्ति
चण्डालकूपमिव दूरतं
तरुण्यः ।। 75 ।।
शिरसि - झटिति ;
यदेव
पुंसाम् - तदा पुमांसम्
शकलं - शतकं
वर्णं सितं शिरसि
वीक्ष्य शिरोरुहाणां
स्थानं जरा-परिभवस्य
यत्-एव पुंसाम् ।
आरोपित-अस्थि-शकलं
परिहृत्य यान्ति
चण्डाल-कूपम्-इव
दूरतं तरुण्यः ।। 75
।।
यावत्स्वस्थमिदं
शरीरमरुजं यावच्च दूरे जरा
यावच्चेन्द्रियशक्तिरप्रतिहता
यावत्क्षयो नायुषः ।
आत्मश्रेयसि तावदेव
विदुषा कार्यः प्रयत्नो महान्-
प्रोद्दीप्ते भवने
तु कूपखननं प्रत्युद्यमः कीदृशः ।। 76
।।
यावच्च दूरे जरा
- यावज्जरा दूरतो
प्रोद्दीप्ते - संदीप्ते
यावत्-स्वस्थम्-इदं
शरीरम्-अरुजं यावत्-च दूरे जरा
यावत्-च-इन्द्रिय-शक्तिः-अप्रतिहता
यावत्-क्षयो न-आयुषः ।
आत्म-श्रेयसि तावत्-एव
विदुषा कार्यः प्रयत्नो महान्-
प्रोद्दीप्ते भवने
तु कूप-खननं प्रति-उद्यमः कीदृशः ।। 76
।।
तपस्यन्तः सन्तः
किमधिनिवसामः सुरनदीं
गुणोदारान्दारानुत
परिचरामः सविनयम् ।
पिबामः शास्त्रौघानुत
विविधकाव्यामृतरसान्-
न विद्मः किं कुर्मः
कतिपयनिमेषायुषि जने ।। 77
।।
तपस्यन्तः सन्तः
किम्-अधिनिवसामः सुर-नदीं
गुण-उदारान्-दारान्-उत
परिचरामः सविनयम् ।
पिबामः शास्त्र-औघान्-उत
विविध-काव्य-अमृत-रसान्-
न विद्मः किं कुर्मः
कतिपय-निमेष-आयुषि जने ।। 77
।।
दुराराध्याश्चामी
तुरगचलचित्ताः क्षितिभुजो
वयं च स्थूलेच्छा
महति च पदे बद्धमनसः ।
जरा देहं मृत्युर्हरति
दयितं जीवितमिदं
सखे नान्यच्छ्रेयो
जगति विदुषोऽन्यत्र तपसः ।। 78
।।
स्थूलेच्छा महति
च पदे - स्थूलेच्छाः सुमहति फले
दुराराध्याः-च-अमी
तुरग-चल-चित्ताः क्षिति-भुजो
वयं च स्थूल-इच्छा
महति च पदे बद्ध-मनसः ।
जरा देहं मृत्युः-हरति
दयितं जीवितम्-इदं
सखे नान्यत्-श्रेयो
जगति विदुषः-अन्यत्र तपसः ।। 78
।।
माने म्लायति खण्डिते
च वसुनि व्यर्थं प्रयातेऽर्थिनि
क्षीणे बन्धुजने
गते परिजने नष्टे शनैर्यौवने ।
युक्तं केवलमेतदेव
सुधियां यज्जह्नुकन्यापयः-
पूतग्रावगिरीन्द्रकन्दरदरीकुञ्जे
निवासः क्वचित् ।। 79
।।
म्लायति - म्लायिनि
;
व्यर्थं
- व्यर्थे
कन्दरदरीकुञ्जे
- कन्दरतटीकुञ्जे
माने म्लायति खण्डिते
च वसुनि व्यर्थं प्रयाते-अर्थिनि
क्षीणे बन्धु-जने
गते परि-जने नष्टे शनैः-यौवने ।
युक्तं केवलम्-एतत्-एव
सुधियां यत्-जह्नु-कन्या-पयः-
पूत-ग्राव-गिरीन्द्र-कन्दर-दरी-कुञ्जे
निवासः क्वचित् ।। 79
।।
रम्याश्चन्द्रमरीचयस्तृणवती
रम्या वनान्तस्थली
रम्यं साधुसुहृत्समागमसुखं
काव्येषु रम्याः कथाः ।
कोपोपाहितबाष्पबिन्दुतरलं
रम्यं प्रियाया मुखं
सर्वे रम्यमनित्यतामुपगते
चित्ते न किञ्चित्पुनः ।। 80
।।
रम्यं साधुसुहृत्समागमसुखं
-
रम्याः साधुसमागमाः
शमसुखं
रम्याः-चन्द्र-मरीचयः-तृणवती
रम्या वनान्त-स्थली
रम्यं साधु-सुहृत्-समागम-सुखं
काव्येषु रम्याः कथाः ।
कोप-उपाहित-बाष्प-बिन्दु-तरलं
रम्यं प्रियाया मुखं
सर्वे रम्यम्-अनित्यताम्-उपगते
चित्ते न किञ्चित्-पुनः ।। 80 ।।
रम्यं हर्म्यतलं
न किं वसतये श्रव्यं न गेयादिकं
किं वा प्राणसमासमागमसुखं
नैवाधिकं प्रीतये ।
किं तूद्भ्रान्तपतत्पतङ्गपवनव्यालोलदीपाङ्कुरच्-
छायाचञ्चलमाकलय्य
सकलं सन्तो वनान्तं गताः ।। 81
।।
श्रव्यं - श्राव्यं
;
नैवाधिकं
प्रीतये - नैवाधिकप्रीतये
किं तूद्भ्रान्तपतत्पतङ्ग
- किंतु भ्रान्तपतङ्गपक्ष
रम्यं हर्म्य-तलं
न किं वसतये श्रव्यं न गेय-आदिकं
किं वा प्राण-समा-समागम-सुखं
न-एव-अधिकं प्रीतये ।
किं तु-उद्भ्रान्त-पतत्-पतङ्ग-पवन-व्यालोल-दीप-अङ्कुर-
छाया-चञ्चलम्-आकलय्य
सकलं सन्तो वन-अन्तं गताः ।। 81
।।
आसंसारं त्रिभुवनमिदं
चिन्वतां तात तादृङ्-
नैवास्माकं नयनपदवीं
श्रोत्रवर्त्मागतो वा ।
योऽयं धत्ते विषयकरिणीगाढगूढाभिमान-
क्षीबस्यान्तःकरणकरिणः
संयमालानलीलाम् ।। 82
।।
आसंसारं त्रिभुवनम्
- आसंसारात्-त्रिभुवनम्
श्रोत्रवर्त्मागतो
- श्रोत्रमार्गंगतो
संयमालानलीलाम्
- संयमानायलीलाम्
आसंसारं त्रि-भुवनम्-इदं
चिन्वतां तात तादृक्-
न-एव-अस्माकं नयन-पदवीं
श्रोत्र-वर्त्मा-गतो वा ।
यः-अयं धत्ते विषय-करिणी-गाढ-गूढ-अभिमान-
क्षीबस्य-अन्तःकरण-करिणः
संयम-आलान-लीलाम् ।। 82
।।
यदेतत्स्वच्छन्दं
विहरणमकार्पण्यमशनं
सहार्यैः संवासः
श्रुतमुपशमैकव्रतफलम् ।
मनो मन्दस्पन्दं
बहिरपि चिरस्यापि विमृशन्-
न जाने कस्यैषा परिणतिरुदारस्य
तपसः ।। 83
।।
यत्-एतत्-स्वच्छन्दं
विहरणम्-अकार्पण्यम्-अशनं
सह-आर्यैः संवासः
श्रुतम्-उपशम-एक-व्रत-फलम् ।
मनः मन्द-स्पन्दं
बहिः-अपि चिरस्य-अपि विमृशन्-
न जाने कस्य-एषा
परिणतिः-उदारस्य तपसः ।। 83
।।
जीर्णा एव मनोरथाः
स्वहृदये यातं च तद्यौवनं
हन्ताङ्गेषु गुणाश्च
वन्ध्यफलतां याता गुणज्ञैर्विना ।
किं युक्तं सहसाभ्युपैति
बलवान्-कालः कृतान्तोऽक्षमी
हा ज्ञातं स्मरशासनाङ्घ्रियुगलं
मुक्त्वास्ति नान्या गतिः ।। 84
।।
मनोरथाः स्वहृदये
- मनोरथाश्च हृदये
स्मरशासनाङ्घ्रियुगलं
- मदनान्तकाङ्घ्रियुगलं
जीर्णा एव मनोरथाः
स्व-हृदये यातं च तत्-यौवनं
हन्त-अङ्गेषु गुणाः-च
वन्ध्य-फलतां याता गुणज्ञैः-विना ।
किं युक्तं सहसा-अभ्युपैति
बलवान्-कालः कृतान्तः-अक्षमी
हा ज्ञातं स्मर-शासन-अङ्घ्रि-युगलं
मुक्त्वा-अस्ति न-अन्या गतिः ।। 84
।।
महेश्वरे वा जगतामधीश्वरे
जनार्दने वा जगदन्तरात्मनि
।
न वस्तुभेदप्रतिपत्तिरस्ति
मे
तथापि भक्तिस्तरुणेन्दुशेखरे
।। 85
।।
महेश्वरे वा जगताम्-अधीश्वरे
जनार्दने वा जगत्-अन्तरात्मनि
।
न वस्तु-भेद-प्रति-पत्तिः-अस्ति
मे
तथा-अपि भक्तिः-तरुण-इन्दु
शेखरे ।। 85 ।।
स्फुरत्स्फारज्योत्स्नाधवलिततले
क्वापि पुलिने
सुखासीनाः शान्तध्वनिषु
रजनीषु द्युसरितः ।
भवाभोगोद्विग्नाः
शिव शिव शिवेत्युच्चवचसः
कदा स्यामानन्दोद्गतबहुलबाष्पाप्लुतदृशः
।। 86
।।
स्यामानन्दोद्गतबहुलबाष्पाप्लुतदृशः
-
यास्यामोऽन्तर्गतबहुलबाष्पाकुलदशाम्
स्फुरत्-स्फार-ज्योत्स्ना-धवलित-तले
क्वापि पुलिने
सुख-आसीनाः शान्त-ध्वनिषु
रजनीषु द्यु-सरितः ।
भव-आभोग-उद्विग्नाः
शिव शिव शिव-इति-उच्च-वचसः
कदा स्याम-आनन्द-उद्गत-बहुल-बाष्प-आप्लुत-दृशः
।। 86
।।
वितीर्णे सर्वस्वे
तरुणकरुणापूर्णहृदयाः
स्मरन्तः संसारे
विगुणपरिणामा विधिगतीः ।
वयं पुण्यारण्ये
परिणतशरच्चन्द्रकिरणाः-
त्रियामा नेष्यामो
हरचरणचिन्तैकशरणाः ।। 87
।।
परिणामा विधिगतीः
- परिणामां विधिगतिं
वितीर्णे सर्वस्वे
तरुण-करुणा-पूर्ण-हृदयाः
स्मरन्तः संसारे
विगुण-परिणामा विधि-गतीः ।
वयं पुण्य-अरण्ये
परिणत-शरत्-चन्द्र-किरणाः-
त्रियामा नेष्यामः
हर-चरण-चिन्ता-एक-शरणाः ।। 87
।।
कदा वाराणस्याममरतटिनीरोधसि
वसन्-
वसानः कौपीनं शिरसि
निदधानोऽञ्जलिपुटम् ।
अये गौरीनाथ त्रिपुरहर
शम्भो त्रिनयन
प्रसीदेत्याक्रोशन्निमिषमिव
नेष्यामि दिवसान् ।। 88
।।
प्रसीदेत्याक्रोशन्
- प्रसीदेति क्रोशन्
कदा वाराणस्याम्-अमर-तटिनी-रोधसि
वसन्-
वसानः कौपीनं शिरसि
निदधानः-अञ्जलि-पुटम् ।
अये गौरी-नाथ त्रिपुर-हर
शम्भो त्रि-नयन
प्रसीद-इति-आक्रोशन्-निमिषम्-इव
नेष्यामि दिवसान् ।। 88
।।
स्नात्वा गाङ्गैः
पयोभिः शुचिकुसुमफलैरर्चयित्वा विभो त्वां
ध्येये ध्यानं नियोज्य
क्षितिधरकुहरग्रावपर्यङ्कमूले ।
आत्मारामः फलाशी
गुरुवचनरतस्त्वत्प्रसादात्स्मरारे
दुःखं मोक्ष्ये कदाहं
समकरचरणे पुंसि सेवासमुत्थम् ।। 89
।।
नियोज्य - निवेश्य
स्नात्वा गाङ्गैः
पयोभिः शुचि-कुसुम-फलैः-अर्चयित्वा विभो त्वां
ध्येये ध्यानं नियोज्य
क्षिति-धर-कुहर-ग्राव-पर्यङ्क-मूले ।
आत्म-आरामः फल-आशी
गुरु-वचन-रतः-त्वत्-प्रसादात्-स्मर-अरे
दुःखं मोक्ष्ये कदा-अहं
स-मकर-चरणे पुंसि सेवा-समुत्थम् ।। 89
।।
एकाकी निस्पृहः शान्तः
पाणिपात्रो दिगम्बरः ।
कदा शम्भो भविष्यामि
कर्मनिर्मूलनक्षमः ।। 90
।।
एकाकी निस्पृहः शान्तः
पाणि-पात्रो दिक्-अम्बरः ।
कदा शम्भो भविष्यामि
कर्म-निर्मूलन-क्षमः ।। 90 ।।
पाणिं पात्रयतां
निसर्गशुचिना भैक्षेण संतुष्यतां
यत्र क्वापि निषीदतां
बहुतृणं विश्वं मुहुः पश्यताम् ।
अत्यागेऽपि तनोरखण्डपरमानन्दावबोधस्पृशां-
अध्वा कोऽपि शिवप्रसादसुलभः
संपत्स्यते योगिनाम् ।। 91
।।
पाणिं पात्रयतां
निसर्ग-शुचिना भैक्षेण संतुष्यतां
यत्र क्व-अपि निषीदतां
बहु-तृणं विश्वं मुहुः पश्यताम् ।
अत्यागे-अपि तनोः-अखण्ड-परम-आनन्द-अवबोध-स्पृशां-
अध्वा कः-अपि शिव-प्रसाद-सुलभः
संपत्स्यते योगिनाम् ।। 91
।।
कौपीनं शतखण्डजर्जरतरं
कन्था पुनस्तादृशी
नैश्चिन्त्यं निरपेक्षभैक्षमशनं
निद्रा श्मशाने वने ।
मित्रामित्रसमानतातिविमला
चिन्ताऽथ शून्यालये
ध्वस्ताशेषमदप्रमादमुदितो
योगी सुखं तिष्ठति ।। 92
।।
variation
for second half
स्वातन्त्र्येण निरङ्कुशं
विहरणं स्वान्तं प्रशान्तं सदा
स्थैर्यं योगमहोत्सवेऽपि
च यदि त्रैलोक्यराज्येन किम् ।।
कौपीनं शत-खण्ड-जर्जर-तरं
कन्था पुनः-तादृशी
नैश्चिन्त्यं निरपेक्ष-भैक्षम्-अशनं
निद्रा श्मशाने वने ।
मित्र-अमित्र-समानता-अति-विमला
चिन्ता-अथ शून्य-आलये
ध्वस्त-अशेष-मद-प्रमाद-मुदितः
योगी सुखं तिष्ठति ।। 92
।।
स्वातन्त्र्येण निरङ्कुशं
विहरणं स्वान्तं प्रशान्तं सदा
स्थैर्यं योग-महोत्सवे-अपि
च यदि त्रैलोक्य-राज्येन किम् ।।
ब्रह्माण्डमण्डलीमात्रं
किं लोभाय मनस्विनः ।
शफरीस्फुरितेनाब्धेः
क्षुब्धता जातु जायते ।। 93
।।
ब्रह्माण्डमण्डलीमात्रं
- ब्रह्माण्डं मण्डलीमात्रं
स्फुरितेनाब्धेः
क्षुब्धता जातु जायते -
स्फुरितेनाब्धिः
क्षुब्धो न खलु जायते
ब्रह्माण्ड-मण्डली-मात्रं
किं लोभाय मनस्विनः ।
शफरी-स्फुरितेन-अब्धेः
क्षुब्धता जातु जायते ।। 93
।।
मातर्लक्ष्मी भजस्व
कंचिदपरं मत्काङ्क्षिणी मा स्म भूः-
भोगेभ्यः स्पृहयालवो
न हि वयं का निस्पृहाणामसि ।
सद्यःस्यूतपलाशपत्रपुटिकापात्रे
पवित्रीकृते
भिक्षासक्तुभिरेव
संप्रति वयं वृत्तिं समीहामहे ।। 94
।।
भोगेभ्यः स्पृहयालवो
न हि वयं का -
भोगेषु स्पृहयालवस्तव
वशे का
पवित्रीकृते - पवित्रीकृतैः
भिक्षासक्तुभिरेव - भिक्षावस्तुभिरेव
मातः-लक्ष्मी भजस्व
कंचिद्-अपरं मत्-काङ्क्षिणी मा स्म भूः-
भोगेभ्यः स्पृहयालवो
न हि वयं का निस्पृहाणाम्-असि ।
सद्यः-स्यूत-पलाश-पत्र-पुटिका-पात्रे
पवित्री-कृते
भिक्षा-सक्तुभिः-एव
संप्रति वयं वृत्तिं समीहामहे ।। 94
।।
मही रम्या शय्या
विपुलमुपधानं भुजलता
वितानं चाकाशं व्यजनमनुकूलोऽयमनिलः
।
स्फुरद्दीपश्चन्द्रो
विरतिवनितासङ्गमुदितः
सुखं शान्तः शेते
मुनिरतनुभूतिर्नृप इव ।। 95
।।
मही रम्या शय्या
- महाशय्या पृथ्वी
स्फुरद्दीपश्चन्द्रो
- शरच्चन्द्रो दीपो
सुखं - सुखी
मही रम्या शय्या
विपुलम्-उपधानं भुज-लता
वितानं च-आकाशं व्यजनम्-अनुकूलः-अयम्-अनिलः
।
स्फुरत्-दीपः-चन्द्रो
विरति-वनिता-सङ्ग-मुदितः
सुखं शान्तः शेते
मुनिः-अतनु-भूतिः-नृप इव ।। 95
।।
भिक्षाशी जनमध्यसङ्गरहितः
स्वायत्तचेष्टः सदा
दानादानविरक्तमार्गनिरतः
कश्चित्तपस्वी स्थितः ।
रथ्याकीर्णविशीर्णजीर्णवसनैरास्यूतकन्थाधरो
निर्मानो निरहंकृतिः
शमसुखाभोगैकबद्धस्पृहः ।। 96
।।
दानादान - हानादान
वसनैरास्यूतकन्थाधरो
- वसनः सम्प्राप्तकन्थासनो
भिक्षाशी जन-मध्य-सङ्ग-रहितः
स्वायत्त-चेष्टः सदा
दान-आदान-विरक्त-मार्ग-निरतः
कश्चित्-तपस्वी स्थितः ।
रथ्या-कीर्ण-विशीर्ण-जीर्ण-वसनैः-आस्यूत-कन्था-धरो
निर्मानो निरहंकृतिः
शम-सुख-आभोग-एक-बद्ध-स्पृहः ।। 96
।।
चाण्डालः किमयं द्विजातिरथवा
शूद्रोऽथ किं तापसः
किं वा तत्त्वविवेकपेशलमतिर्योगीश्वरः
कोऽपि किं ।
इत्युत्पन्नविकल्पजल्पमुखरैः
संभाष्यमाणा जनैः
न क्रुद्धाः पथि
नैव तुष्टमनसो यान्ति स्वयं योगिनः ।। 97
।।
मुखरैः संभाष्यमाणा
- मुखरैराभाष्यमाणा
चाण्डालः किम्-अयं
द्विजातिः-अथवा शूद्रः-अथ किं तापसः
किं वा तत्त्व-विवेक-पेशल-मतिः-योगि-ईश्वरः
कः-अपि किं ।
इति-उत्पन्न-विकल्प-जल्प-मुखरैः
संभाष्यमाणा जनैः
न क्रुद्धाः पथि
न-एव तुष्ट-मनसो यान्ति स्वयं योगिनः ।। 97
।।
हिंसाशून्यमयत्नलभ्यमशनं
धात्रा मरुत्कल्पितं
व्यालानां पशवस्तृणाङ्कुरभुजः
सृष्टाः स्थलीशायिनः ।
संसारार्णवलङ्घनक्षमधियां
वृत्तिः कृता सा नृणां
यामन्वेषयतां प्रयान्ति
सततं सर्वे समाप्तिं गुणाः ।। 98
।।
भुजः सृष्टाः - भुजस्तुष्टाः
यामन्वेषयतां - तामन्वेषयतां
हिंसा-शून्यम्-अयत्न-लभ्यम्-अशनं
धात्रा मरुत्-कल्पितं
व्यालानां पशवः-तृण-अङ्कुर-भुजः
सृष्टाः स्थली-शायिनः ।
संसार-अर्णव-लङ्घन-क्षम-धियां
वृत्तिः कृता सा नृणां
याम्-अन्वेषयतां
प्रयान्ति सततं सर्वे समाप्तिं गुणाः ।। 98
।।
गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य
ब्रह्मध्यानाभ्यसनविधिना
योगनिद्रां गतस्य ।
किं तैर्भाव्यं मम
सुदिवसैर्यत्र ते निर्विशङ्काः
कण्डूयन्ते जरठहरिणाः
स्वाङ्गमङ्गे मदीये ।। 99
।।
गङ्गा-तीरे हिम-गिरि-शिला-बद्ध-पद्म-आसनस्य
ब्रह्म-ध्यान-अभ्यसन-विधिना
योग-निद्रां गतस्य ।
किं तैः-भाव्यं मम
सुदिवसैः-यत्र ते निर्विशङ्काः
कण्डूयन्ते जरठ-हरिणाः
स्व-अङ्गम्-अङ्गे मदीये ।। 99
।।
पाणिः पात्रं पवित्रं
भ्रमणपरिगतं भैक्षमक्षय्यमन्नं
विस्तीर्णं वस्त्रमाशादशकमपमलं
तल्पमस्वल्पमुर्वी ।
येषां निःसङ्गताङ्गीकरणपरिणतिः
स्वात्मसंतोषिणस्ते
धन्याः संन्यस्तदैन्यव्यतिकरनिकराः
कर्म निर्मूलयन्ति ।। 100
।।
दशकमपमलं - दशकमचपलं
परिणतिः स्वात्म
- परिणतस्वान्त
पाणिः पात्रं पवित्रं
भ्रमण-परिगतं भैक्षम्-अक्षय्यम्-अन्नं
विस्तीर्णं वस्त्रम्-आशा-दशकम्-अपमलं
तल्पम्-अस्वल्पम्-उर्वी ।
येषां निःसङ्गत-अङ्गीकरण-परिणतिः
स्वात्म-संतोषिणः-ते
धन्याः संन्यस्त-दैन्य-व्यतिकर-निकराः
कर्म निर्मूलयन्ति ।। 100
।।
मातर्मेदिनि तात
मारुत सखे तेजः सुबन्धो जल-
भ्रातर्व्योम निबद्ध
एष भवतामन्त्यः प्रणामाञ्जलिः ।
युष्मत्सङ्गवशोपजातसुकृतोद्रेकस्फुरन्निर्मल-
ज्ञानापास्तसमस्तमोहमहिमा
लीये परे ब्रह्मणि ।। 101
।।
एषे - एव ;
सुकृतोद्रेक
- सुकृत्स्फार
परे ब्रह्मणि - परब्रह्मणि
मातः मेदिनि तात
मारुत सखे तेजः सुबन्धो जल-
भ्रातः-व्योम निबद्ध
एष भवताम्-अन्त्यः प्रणाम-अञ्जलिः ।
युष्मत्-सङ्ग-वश-उपजात-सुकृत-उद्रेक-स्फुरत्-निर्मल-
ज्ञान-अपास्त-समस्त-मोह-महिमा
लीये परे ब्रह्मणि ।। 101
।।
No comments:
Post a Comment